ॐ नमो विघ्नराजाय सर्व सौख्य प्रदायिने।
दुष्टारिष्ट विनाशाय पराय परमात्मने।। – १
लामोदरं महवीर्यं नागयज्ञोपशोभितम।
अर्ध्चन्द्रधरं देवं विघ्नव्यूहविनाशनम।। – २
ॐ ह्रां ह्रीं हृं ह्रैं ह्रौं ह्रः हेरम्बाय नमो नमः।
सर्वसिद्धिप्रदोसि त्वं सिद्धिबुद्धि प्रदो भव।। – ३
चिन्तितार्थ प्रदस्तवं हि सततं मोदक प्रियः।
सिंदुरारुणवस्त्रैच पूजितो वरदायकः।। – ४
इदं गणपतिस्तोत्रं यः पठेद भक्तिमान नरः।
तस्य देहं च गेहं च स्वं लक्ष्मीर्न मुच्चति।। – ५
।। इति श्रीलक्ष्मीप्रद श्रीगणपति स्तोत्रं सम्पूर्णम।।